॥ श्रीदुर्गासप्तशती - पञ्चमोऽध्यायः ॥
देवताहरूद्वारा देवीको स्तुति,
चण्ड–मुण्डबाट अम्बिकाको
रूपको प्रशंसा सुनेपछि
शुम्भले उहाँकहाँ दूत
पठाउनु र दूत निराश भएर फर्कनु
॥ विनियोगः ॥
ॐ अस्य श्रीउत्तरचरित्रस्य रुद्र ऋषिः,
महासरस्वती देवता, अनुष्टुप्
छन्दः, भीमा शक्तिः, भ्रामरी बीजम्,
सूर्यस्तत्त्वम्, सामवेदः स्वरूपम्,
महासरस्वतीप्रीत्यर्थे उत्तरचरित्रपाठे विनियोगः।
॥ ध्यानम् ॥
ॐ घण्टाशूलहलानि शङ्खमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्॥
"ॐ क्लीं" ऋषिरुवाच॥1॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः।
त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात्॥2॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम्।
कौबेरमथ याम्यं च चक्राते वरुणस्य च॥3॥
तावेव पवनर्द्धिं च चक्रतुर्वह्निकर्म चअन्येषां चाधिकारान् स स्वयमेवाधितिष्ठति
इतना पाठ अधिक है।">।
ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः॥4॥
हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम्॥5॥
तयास्माकं वरो दत्तो यथाऽऽपत्सु स्मृताखिलाः।
भवतां नाशयिष्यामि तत्क्षणात्परमापदः॥6॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम्।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः॥7॥
देवा ऊचुः॥8॥
नमो देव्यै महादेव्यै शिवायै सततं नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥9॥
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥10॥
कल्याण्यै प्रणतांप्रणताः इति पाठान्तरम्।"> वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः।
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥11॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः॥12॥
第16章(全37章)
6ページ中1ページ
この章の残り約5分
© Xtreme Soul · SaleMyDopでの初出: . すべての権利は書き手に帰属します。無断転載はご遠慮ください。 盗用を通報
書き手
Xtreme Soul