Bag icon
Text logo
लोड हुँदैछ...ढुकढुक
SHRAVYA

फ्ह्रिताँ पाटी
फ्ह्रिताँ पाटी· salemydop.com
फ्ह्रिताँ पाटी· salemydop.com

श्री अष्ट भैरव ध्यानस्तोत्रम्

❖

श्री अष्ट भैरव ध्यान स्तोत्रम्

भैरवः पूर्णरूपोहि शङ्करस्य परात्मनः ।

मूढास्तेवै न जानन्ति मोहिताः शिवमायया ॥

ॐ हं षं नं गं कं सं खं महाकालभैरवाय नमः ।

नमस्कार मन्त्रः –

ॐ श्रीभैरव्यै, ॐ मं महाभैरव्यै, ॐ सिं सिंहभैरव्यै, ॐ धूं धूम्रभैरव्यै, ॐ भीं भीमभैरव्यै, ॐ उं उन्मत्तभैरव्यै, ॐ वं वशीकरणभैरव्यै, ॐ मों मोहनभैरव्यै ।

॥ अष्टभैरव ध्यानम् ॥

असिताङ्गोरुरुश्चण्डः क्रोधश्चोन्मत्तभैरवः । कपालीभीषणश्चैव संहारश्चाष्टभैरवम् ॥

१) असिताङ्गभैरव ध्यानम् ।

रक्तज्वालजटाधरं शशियुतं रक्ताङ्ग तेजोमयं अस्ते शूलकपालपाशडमरुं लोकस्य रक्षाकरम् । निर्वाणं शुनवाहनन्त्रिनयनमानन्दकोलाहलं वन्दे भूतपिशाचनाथ वटुकं क्षेत्रस्य पालं शिवम् ॥ १॥

२) रूरुभैरव ध्यानम् ।

निर्वाणं निर्विकल्पं निरूपजमलं निर्विकारं क्षकारं हुङ्कारं वज्रदंष्ट्रं हुतवहनयनं रौद्रमुन्मत्तभावम् । भट्कारं भक्तनागं भृकुटितमुखं भैरवं शूलपाणिं वन्दे खड्गं कपालं डमरुकसहितं क्षेत्रपालन्नमामि ॥ २॥

३) चण्डभैरव ध्यानम् ।

बिभ्राणं शुभ्रवर्णं द्विगुणदशभुजं पञ्चवक्त्रन्त्रिनेत्रं दानञ्छत्रेन्दुहस्तं रजतहिममृतं शङ्खभेषस्यचापम् । शूलं खड्गञ्च बाणं डमरुकसिकतावञ्चिमालोक्य मालां सर्वाभीतिञ्च दोर्भीं भुजतगिरियुतं भैरवं सर्वसिद्धिम् ॥ ३॥

४) क्रोधभैरव ध्यानम् ।

उद्यद्भास्कररूपनिभन्त्रिनयनं रक्ताङ्ग रागाम्बुजं भस्माद्यं वरदं कपालमभयं शूलन्दधानं करे । नीलग्रीवमुदारभूषणशतं शन्तेशु मूढोज्ज्वलं बन्धूकारुण वास अस्तमभयं देवं सदा भावयेत् ॥ ४॥

५) उन्मत्तभैरव ध्यानम् ।

एकं खट्वाङ्गहस्तं पुनरपि भुजगं पाशमेकन्त्रिशूलं कपालं खड्गहस्तं डमरुकसहितं वामहस्ते पिनाकम् । चन्द्रार्कं केतुमालां विकृतिसुकृतिनं सर्वयज्ञोपवीतं कालं कालान्तकारं मम भयहरं क्षेत्रपालन्नमामि ॥ ५॥

६) कपालभैरव ध्यानम् ।

वन्दे बालं स्फटिकसदृशं कुम्भलोल्लासिवक्त्रं दिव्याकल्पैफणिमणिमयैकिङ्किणीनूपुरञ्च । दिव्याकारं विशदवदनं सुप्रसन्नं द्विनेत्रं हस्ताद्यां वा दधानान्त्रिशिवमनिभयं वक्रदण्डौ कपालम् ॥ ६॥

७) भीषणभैरव ध्यानम् ।

त्रिनेत्रं रक्तवर्णञ्च सर्वाभरणभूषितम् । कपालं शूलहस्तञ्च वरदाभयपाणिनम् ॥

सव्ये शूलधरं भीमं खट्वाङ्गं वामकेशवम् । रक्तवस्त्रपरिधानं रक्तमाल्यानुलेपनम् । नीलग्रीवञ्च सौम्यञ्च सर्वाभरणभूषितम् ॥

नीलमेख समाख्यातं कूर्चकेशन्त्रिनेत्रकम् । नागभूषञ्च रौद्रञ्च शिरोमालाविभूषितम् ॥

नूपुरस्वनपादञ्च सर्प यज्ञोपवीतिनम् । किङ्किणीमालिका भूष्यं भीमरूपं भयावहम् ॥ ७॥

८) संहारभैरव ध्यानम् ।

एकवक्त्रन्त्रिनेत्रञ्च हस्तयो द्वादशन्तथा । डमरुञ्चाङ्कुशं बाणं खड्गं शूलं भयान्वितम् ॥

धनुर्बाण कपालञ्च गदाग्निं वरदन्तथा । वामसव्ये तु पार्श्वेन आयुधानां विधन्तथा ॥

नीलमेखस्वरूपन्तु नीलवस्त्रोत्तरीयकम् । कस्तूर्यादि निलेपञ्च श्वेतगन्धाक्षतन्तथा ॥

श्वेतार्क पुष्पमालाञ्च त्रिकोट्यङ्गणसेविताम् । सर्वालङ्कार संयुक्तां संहारञ्च प्रकीर्तितम् ॥ ८॥

इति श्रीभैरव स्तुति निरुद्र कुरुते ।

। इति अष्टभैरव ध्यानस्तोत्रं सम्पूर्णम् ।

Xtreme Soul

ट्यागहरू

bhairavसाधना
अध्यात्म दे दर्शन
स्तोत्र

२

०

०

६ खे पढियो

असार २४, २०८३

© Xtreme Soul · salemydop मा पहिलो खे प्रकाशित: असार २४, २०८३. सर्वाधिकार लेखकमा सुरक्षित; अनुमतिबिना नक्कल नगर्नुहोस्। नक्कल भएको जानकारी बिद्

ग्यालरी
१ / ६

लेखक

X

Xtreme Soul

टिप्पणीहरू
​
​

लेखक

X

Xtreme Soul

Xtremesoul
नीतिहरूताइ नीतिहरू·सम्पर्क लद्