॥ अथ प्राधानिकं रहस्यम् ॥
॥ विनियोगः ॥
ॐ अस्य श्रीसप्तशतीरहस्यत्रयस्य
नारायण ऋषिरनुष्टुप्छन्दः,
महाकालीमहालक्ष्मीमहासरस्वत्यो देवता
यथोक्तफलावाप्त्यर्थं जपे विनियोगः।
राजोवाच
भगवन्नवतारा मे
चण्डिकायास्त्वयोदिताः।
एतेषां प्रकृतिं ब्रह्मन्
प्रधानं वक्तुमर्हसि॥1॥
आराध्यं यन्मया देव्याः
स्वरूपं येन च द्विज।
विधिना ब्रूहि सकलं
यथावत्प्रणतस्य मे॥2॥
ऋषिरुवाच
इदं रहस्यं परममनाख्येयं प्रचक्षते।
भक्तोऽसीति न मे किञ्चित्तवावाच्यं नराधिप॥3॥
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता॥4॥
मातुलुङ्गं गदां खेटं पानपात्रं च बिभ्रती।
नागं लिङ्गं च योनिं च बिभ्रती नृप मूर्धनि॥5॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा।
शून्यं तदखिलं स्वेन पूरयामास तेजसा॥6॥
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी।
बभार परमं रूपं तमसा केवलेन हि॥7॥
सा भिन्नाञ्जनसङ्काशा दंष्ट्राङ्कितवरानना।
विशाललोचना नारी बभूव तनुमध्यमा॥8॥
खड्गपात्रशिरःखेटैरलङ्कृतचतुर्भुजा।
कबन्धहारं शिरसा बिभ्राणा हि शिरःस्रजम्॥9॥
सा प्रोवाच महालक्ष्मीं तामसी प्रमदोत्तमा।
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः॥10॥
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्।
ददामि तव नामानि यानि कर्माणि तानि ते॥11॥
महामाया महाकाली महामारी क्षुधा तृषा।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया॥12॥
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम्॥13॥
तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप।
सत्त्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ॥14॥
Kapitel 28 von 37
Seite 1 von 2
Noch etwa 2 Min. in diesem Kapitel
© Xtreme Soul · Zuerst veröffentlicht auf SaleMyDop am . Alle Rechte liegen beim Autor; bitte nicht ohne Erlaubnis kopieren. Kopierten Text melden
Autor
Xtreme Soul